पूर्वम्: ६।२।३५
अनन्तरम्: ६।२।३७
 
सूत्रम्
आचार्योपसर्जनश्चान्तेवासी॥ ६।२।३६
काशिका-वृत्तिः
आचार्यौपसर्जनश् च अन्तेवासी ६।२।३६

आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वः, तत्र पूर्वपदं प्रकृतिस्वरं भवति। आपिशलपाणिनीयाः। पाणिनीयरौढीयाः। रौढीयकाशकृत्स्नाः। अपिशलस्यापत्यमापिशलिराचर्यः, अत इञ् ४।१।९५। तेन प्रोक्तम् आपिशलम्, इञश्च ४।२।१११ इत्यण्। तदधीयते ये ऽन्तेवासिनः ते ऽप्यापिशलाः, प्रोक्ताल् लुक् ४।२।६३ इति तस्य तद्धितस्याध्येतरि विहितस्य लुक् क्रियते। आपिशलेर् वा छात्राः आपिशलाः, इत्युभयथाप्याचर्योपसर्जनश्चान्तेवासी भवति। आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्वः आचार्योपसर्जनो यथा विज्ञायेत। इह मा भूत्, पाणिनियदेवदत्तौ। आचार्योपसर्जने इति किम्? छान्दसवैयाकरणाः। अन्तेवासी इति किम्? आपिशलपाणिनीये शास्त्रे।
न्यासः
आचार्योपसर्जनश्चान्तेवासी। , ६।२।३६

आचार्य उपसर्जनं प्रधानं यस्य स ततोक्तः। अन्ते वसतीत्यन्तेवासी। गौणश्चायं निर्देशः। द्वन्द्वस्य यान्यवयवभूतानि तान्याचार्योपसर्जनवाचीनि। तस्मादन्तेवासिवाचित्वाच्चाभिधेय उपचारेण तान्याचार्योपसर्जनान्तेवासिशब्दाभ्यामुच्यन्ते। तदवयवोऽपि द्वन्द्वावयवधर्मेणाचार्योपसर्जनान्तेवासीति चोच्यते। "आपिशलिराचार्यः" इति। "अत इञ्()" ४।१।९५। "आपिशलिरेव वा छात्रा आपिशालाः" इति। पूर्ववदण्()। "उभयथा" इत्यादि। उभयप्रकारेणापि व्युत्पत्तावचार्योपसर्जनश्चान्तेवासी भवति। तथा हि--उभयतर शिष्या एव प्रधानभूता एवमुच्यन्ते, आचार्यस्तु तद्विशेषणत्वादुयसर्जनीभूतः। आपिशलशब्दोऽणन्तत्वात्? प्रत्ययसवरेणान्तोदात्तः। पाणिनिना प्रोक्तमिति "वृद्धाच्छः" ४।२।११३ "तदधीते" ४।२।५८ इत्यण्(), तस्य लुक्()। पाणिनीयशब्दः प्रत्ययस्वरेण मध्योदात्तः। "पाणिनीयरौढीयाः" इति। रोढस्यापत्यं रौढिः, "अत इञ्()" ४।१।९५ रौढेराचार्यस्य च्छात्रा इति "इञश्च" ४।२।१११ इत्यणः प्रापतस्य "न द्व्यचः" ४।२।११२ इति प्रतिषेधे कृते "वृद्धाच्छः" ४।२।११३। अथ वा--रौढिना प्रोक्तं रौढियम्(), ततश्च "तदधीते" ४।२।५८ इत्यण्(), तस्य पूर्ववल्लुक्()--रौढीयाः। रौढीयशब्दोऽपि पूर्ववन्मध्योदात्तः। काशकृत्स्नेन प्रोक्तमित्यण्? तदधीयते काशकृत्स्नाः, पूर्ववदणो लुक्()। "छान्दसवैयाकरणाः" इति। भवत्ययमन्तेवासिना द्वन्द्वः, न त्वाचार्योपसर्जनः। त्र ह्रन्तेवासिन एव छान्दसवैयाकरणाभ्यामुच्यन्ते, न त्वाचार्योपसर्जनीभूताः। छन्दोऽधीयते च्छान्दसाः, व्याकरणमधीयत इति वैयाकरणाः। तत्र ते च यत आचार्यादधीयते तस्यान्तेवासिनः। "आपिशलपाणिनीये शास्त्रे" इति। आपिशलिना प्रोक्तमापिशलम्()। पाणिनिना प्रोक्तं पाणिनीयम्()। यत्र शास्त्रे प्राधान्येनोच्येत तत्र प्रत्ययस्य विधानादाचार्यः प्रधानभूतः; तद्विशेषणत्वात्()। आचार्यत्वं तस्येह शास्तरापेक्षम्()। न ह्राचार्यतान्तेवास्यपेक्षैव भवति, अपि तु शासत्रापेक्षापि॥